________________
८७
चतुर्दिक्थचतुर्द्वारो महामार्गयुतो भवेत् । पीठाधिष्ठानसद्व प्रगोपुरादिसमन्वितः ॥ ४२ ॥
प्राक्प्रतीचीप्रतोल्यस्तु चत्वारिंशत्प्रकीर्तिताः । दक्षिणोत्तरगा विंशद्वीथ्यो दण्डत्रयायताः ॥ ४३ ॥ उपवीथीः क्षुद्रवीथीः कारयेद्बहुसंख्यकाः । वास्तु भूमध्यदेशे तु तुङ्गं भूपालमन्दिरम् ॥ ४४ ॥ राजकार्य करैरन्यैः पुरकार्य करैर्युतः । विपण्यादिसमोपेतो न्यायशालादिभिर्युतः ॥ ४५ ॥
पुररक्षक, परिरक्षितो भवितव्यः । दुर्गेण वप्रेणापि संयुक्तो नित्यमङ्गलग्रामवदत्रापि प्राच्यादिषु चतसृषु दिक्षु महामार्गान्वितं द्वारचतुष्कं सोपपीठं निर्मापणीयम् । तादृशद्वारेषु चतुर्ष्वपि भूमौ प्रथमतः पीठस्तदुरधिष्ठानन्तदुपरि सद्वप्रयुतं गमनागमनयोग्यं महाद्वारं तदुपरि पञ्चतलोपेतन्त्रित लेपितं वा गोपुरश्च निर्मापणीयमिति तन्निर्माणक्रमश्वोक्तो भवति । सङ्ग्रहेण सद्वज्रस्तावत्पृथुद्वारेषु करणीय सन्धिबन्धनार्गलादिरिति तेनेोपेतं महाद्वारमिति निगमाख्येऽस्मिन्नगरे प्राचीदिगारब्धाः प्रतीचीगामिन्यः प्रतोलिकाश्चत्वारिंशत्संख्याकाः स्थाप्याः ||
किन दक्षिणादिगारव्याः कौबेरदिग्गामिन्यस्तिर्यग्वी ध्यस्तावद्विशति संख्याका भवितव्याः । एतासां प्रतोलिकादीनां