________________
तरङ्गिणी तटाकश्च नृपप्रासादकन्तथा । उपकार्याश्च विविधामवरोधांश्च शिल्पिराट् ॥ ८३ ॥ मानयेनृपदण्डेन सर्ववास्तुप्रमाणवित् । देवप्रासादशालादीन्ब्रह्मदण्डेन मानयेत् ।। स्थिरधीरप्रमत्तश्व मानविच्छिल्पकोविदः ।। ८४ ॥
दण्डः मानदण्ड इति नाम भजते । कौशेयादिपट्टवस्त्रग वा रजतादिना, शृङ्खलादिना, वल्कलादिना वा कृतं मानसूत्रामिति नामभाग्भवतीति प्रमिद्धिा ह्या ।। ७८ ।।
एतादृशमानदण्डादिना करणीयमाइ - बेरनिर्माणकार्येष्पित्यादिना । हरिद र लक्ष्मीकाल्यादिवेरनिर्माणकाले पूर्वोक्तेन धनुर्मुष्टिमानेन तादशवरादिपु मुग्यादि मानयेत् ! तथा विमानं देवमग्निशालादींश्च हम्मदण्डन मानयेत । ग्रामपुरनगरादीन् दण्डमानेन नृपदण्डमान बा शिल्पी मानयेत । चतुष्पथवीथीं, वलभी, चत्वरं, मनुज भवनं, विपणिं, निषद्यां, मार्गशालां, सम्य भूमिं च दण्डन वा नृपदण्डेन वा मानयेत् । तथा समग्रमुत्तमं प्राम, गिरि , दुर्ग, चनं, नहीं, तटाकं, नृपप्रासादं राजभवनं, शुद्धान्तादिभवनानि च नृपदण्डेनैव मानयेदित्युपदेशः । सर्वाण्यपि देवभव नानि ब्रह्मदण्डेनैव मानयेदित्येवं दण्डादितत्तन्माननियमनोपदेशः शास्त्रचोदित इति वरम । तत्र