________________
अथ मण्डकादिग्रामवार्थानां मानकथनम् ॥
मण्डकग्रामवीथीनां देयं दण्डशतं भवेत् । दण्डद्वयेन वैशाल्यङ्कथितं शास्त्रपारंगः ।। ८५ ॥ प्रस्तरग्रामवीथ्यस्तु शतद्वयसमन्विताः । सार्धदण्ड द्वयेनैव वैपुल्यमिह कीर्तितम् ॥ ८६ ॥ बाहुलीकग्रामवीथ्यो द्विशताधिकदैर्ध्यगाः । दण्डत्रयेग वैपुल्यं तच्च प्रोक्तं बुधोत्तमैः ।। ८७ ॥ पराकग्रामवीथ्यास्तु देध्यं पञ्चशतं मतम् । दण्डत्रयेण वैशाल्यं कथितं शास्त्रकोविदः ॥ ८८ ॥ चतुर्मुखे पूर्वमुखे याश्च वीथ्यः प्रकीर्तिताः । तासां देयं पञ्चशतं मानमुक्तं मनीषिभिः ॥ ८९ ॥
तत्र मानगणन समयेषु शिल्पिना कोविदेन स्थिरधीयुनाऽप्रमत्तेन च भवितव्यमिति भावः ।। ८४ ॥
दण्डेन मानयेनामनगरादीन्नृपेण घा' इत्युक्तत्वात् धनुर्मुष्टिद्वयप्रमाणोपेतेन दण्डदारुणा पूर्वोक्तमण्डकादिद्वादशविधप्रामाणां मानं करणीयमित्याह - मण्डकग्रामवीथीनामित्यादिना । तत्र मण्डकग्रामवीधीदैर्घ्यन्तु शतदण्डप्रमाणं, वैपुल्यं दण्डद्वयप्रमाणमिति शिल्पज्ञा वदन्तीति भावः ॥