________________
दारुणा पट्टवस्त्रेण लोहैर्वा वल्कलादिभिः । मानसूत्रमिदं कार्य शिल्पिभिश्शास्त्रपारगैः ।। ७८ ॥ बेरनिर्माणकार्येषु धनुर्मुष्टिरुदीरिता । विमाने देवपीठेषु वह्निशालादिमासु च ।। ७९ ।। हस्तमानन्तु संयोज्यं कार्यक्षैश्शिल्पिनां वरैः । दण्डेन मानयेद्ग्रामनगरादीनृपेण वा ।। ८० ॥ घण्टापथश्च शृङ्गाटं चत्वरं मानवं गृहम् । निषद्यां विपणि मार्गशालां सस्यक्षितिं तथा ॥ दण्डेन क्ष्मापदण्डेन मानयेच्छिल्पकोविदः । पुष्कलं ग्राममानश्च गिरिदुर्गवनानि च ॥ ८२ ।। _' इत्यादि बहुधा मानम्' इत्युक्तत्वात् इदं भूमानम | सुवर्णादितुलारोपणमानन्तु अन्यदेव । आज्यादिमानकं प्रस्थमानमप्यन्यदेवेत्यन्यमानजालं सूक्ष्मदर्शिभिरूह्यम् । एतन्मानलक्षणं त्व. स्मत्कृतायां शिल्पकलाव्याख्यायां विस्तरशः प्रपञ्चितम ; तत्सर्वमपि तत्रैव ज्ञेयम् ॥
शालिनीहिस्त्वित्यारभ्य क्रमशः प्रदर्शितमिदं भूमानं दण्डेन वा पट्टवरकेण वा लोहेन वा वल्कलादिभिर्वा कार्यमिति शिल्पज्ञाः । श्रेष्ठया शमीशाखया, निम्बशाखया, खदिरतरु. शाखया, नक्तमालशाखया, ताम्रपित्तलादिलोहेन वा कृतो