________________
महापथेन संयुक्तं सर्वतः परिखावृतम् ॥ ५५ ॥ वीथ्यष्टकसमोपेतचतुर्भागसमन्वितम् । मघवन्मित्रवरुणयक्षाख्याधिपसंयुतम् ॥ ५६ ॥ सर्वभागास्तुल्यमाना नोपवीथ्यादि कीर्तितम् ।
त्रितलसमन्वितं पञ्चतलसमन्वितं वा गोपुरं च क्रियते । तादृशचतुरिमार्गस्तु प्रतिदिशं बहुदूरदेशमार्गसहितश्च क्रियते । यञ्च वास्तुस्थलं सर्वतः परिखया वृतञ्च क्रियते । तस्य नित्यमङ्गलप्राम इति नाम प्रसिद्धम् ।।
अस्य ग्रामस्य लक्षणान्तराणि यथा-अस्य समयां वास्तुभूमिं सूत्रप्रसारणेन सममानं चतुर्भागं कृत्वा एकैकस्मिन्नपि भागे विपुलं वीथ्यष्टकं कारयेत् । आहत्य चतुर्वपि भागेषु द्वात्रिंशद्वीथ्यो भवन्तीत्याशयः । अत्र तु क्षुद्रवीथीं वा उपवीथीं वा कुत्रापि न कारयेदिति नियमः ॥
किश्चात्र पूर्वोक्तवास्तुभूभागचतुष्कस्य इन्द्रः, रविः वरुणः, यक्षेशश्च मुख्या अधिदेवता इत्युक्तत्वात् , एकैकास्मनपि भागे तादृशेन्द्रादिदेवानां तत्तद्भागाधिपानामालयः कार्य इति । यथा-पूर्वोक्तवास्तुभूमौ प्राच्यां दिशि इन्द्रस्यायतनं कार्यम् । दक्षिणस्यां दिशि रवेरायतनम् , प्रतीच्यां दिशि वरुणस्यायतनम् , उदीच्यां दिशि धनाधिपस्यायतनमिति विवेकः । एते