________________
६२
ब्राह्मणैस्समतां यातैरन्यैश्च बहुभिर्युतम् ॥ ५२ ॥
दक्षिणोत्तरगं वीथीचतुष्कं विपुलं मतम् । स्थलानुकूलं निर्माय चोपवीथीश्च सर्वतः ।। ५३ ।। प्राक्प्रतीचीगता वीथीः कल्पयेत्स्वेच्छया बुधः । तद्वास्तु विबुधैः प्रोक्तं नाम्ना कैलासनामभाक् ।।
अथ द्वादशस्य नित्यमङ्गलग्रामस्य लक्षणम् ॥ चतुर्दिक्स्थचतुर्द्वारं महागोपुर संयुतम् ।
चास्मिन्ग्रामे ब्राह्मणजनसंख्या यावती वर्तते तावत्येव संख्या इतरेषां सर्वेषामपि जनानां भवितव्येति चान्यो नियमः । वणिग्जनसमाकीर्णा विपण्यादयस्तु स्थलानुकूल्येन तत्र तत्र स्थाप्या इति भावः । अत्र ग्रामे विपुलं वीथीचतुष्कं दक्षिणोत्तरदिग्गामि भवेत् । तथैव वीथी चतुष्कमपि प्राक्प्रतीचीदिग्गतं कार्यम् । क्षुद्रवीथिकामुपवीथीं तु स्थलसौकर्यानुगुणं सर्वतः प्राच्यादिषु भागेषु कारयेत् । एतादृशलक्षणान्वितोऽयं ग्रामः कैलासनामभागिति शिल्पसिद्धान्ते निगद्यत इति स्फुटम् ॥ ५४ ॥
अथ द्वादशस्य नित्यमङ्गलग्रामस्य लक्षणमाह चतुर्दिक्स्थचतुर्द्वारमिति । यत्र स्थले प्राच्यादिषु चतसृषु दिक्षु चतुर्मार्ग कल्पनं निर्मीयते । तेषां चतुर्णा प्राच्यादिद्वाराणामुपरि
-