SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ अथैकादशस्य कैलासग्रामस्य लक्षणम् ॥ समुद्रतीरगां भूमिमथवा गिरिसानुगाम । वर्तुलां वास्तुभूमि वा चतुरश्रामथापि वा ।। ४९ ॥ उत्तमां भूमिमासाद्य भवनादिकृते शुभम् । मुख्यमार्गयुतं प्राच्यां परिखावप्रयुक्तथा ॥ ५० ॥ देवतायतनं मध्य वास्तुगं गोपुरान्वितम् । वापीकूपतटाकादि वारुण्यां कल्पितं यदि ! ५१ ॥ वणिग्जनसमाकीर्ण निषद्यादिभिरन्वितम् । अथैकादशस्य कैलासग्रामस्य लक्षणमाह - समुद्रतीरगामित्यादिना । समुद्रतीरगा भूमिः, गिरिसानुस्थिता भूमिः, वर्तुला भूमिः , चतुरस्रा च भूमिः । एवंविधास्सर्वा अपि वास्तुभूमयो यदि उत्तमगुणोपेतास्तदा तासु भवनादिकं कार्यमित्युक्तत्वात् कैलासनामभाजोऽस्य ग्रामस्य भूमिम्समुद्रतीरगा वा गिरिसानुगा वा स्वीकार्येत्याशयः ॥ किञ्च, ग्रामस्यास्य मुख्यो मार्गः प्राच्यां दिशि कल्पनीयः । किञ्चास्य सर्वत्र परिखा वा वाभित्तिर्वा एतदुभयं वाऽवश्यं कार्यम् । गोपुरान्वितं देवागारं तु ग्रामस्यास्य मध्यभागे निर्मापणीयम् । वारुण्यां दिशि जलाशयः कार्यः । अपि
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy