________________
६४
हरेरस्य देवीनां काल्यादीनां खेरपि ॥ ५७ ॥
गोपुरेण समायुक्तं सभामण्टपसंयुतम् । तटाकाद्यैस्समायुक्तं भवनं मध्यवास्तुभाक् ॥ ५८ ॥
पट्सहस्राधिकजने संयुतं च समन्ततः । वणिग्जनसमाकीर्णं तन्तुवायादिभिर्युतम् ॥ ५९ ॥
ग्रामकार्य करै स्सर्वैरन्यैश्च बहुभिर्युतम् । नरपालालयोपेतं न्यायवित्सभया युतम् ॥
निर्माण यत्र स ग्रामो नित्यमङ्गलनामभाक् ॥ ६० ॥
देवाः क्रमशस्तत्तद्वास्तुभूवासिनां जनानां बलारोग्यपुष्टिधनवृद्धिप्रड़ा मता इति प्रतीतिः ॥
एतेषामिन्द्रादिदेवानां क्षुद्रायतनमेव कार्यम | महाभवनं
1
तु हरेर्लक्ष्म्याः, हरस्य गौर्याश्व । अन्यासां काल्यादीनां नगर प्रामाधिदवनामायतनन्तु महागोपुरसभामष्टपतटाकादिनिर्माण सहितं कारयेदित्यर्थः । कुत्र ? नित्यमङ्गरस्यास्य ग्रामस्य मध्यभाग एव । अब सर्वत्र नानाजातिजनानां षट्सहस्रसंख्याया अधिकानामपि बास इति । किञ्चायं ग्राम: बहुविधवणिग्जनापेतः तन्तुवायादिभिः कुविन्दादिभिर्वस्त्रकारादिभिः सहितः कुलालाम्बष्ठादिग्रामकार्यकरैश्च सहितः न्यायवित्ममया युतश्च भवतीति । अयमेव सर्वेषु