________________
ग्रामकार्यकरैस्सर्वैरन्वितञ्च वणिग्गणैः । पण्यवीथीभिराकीर्ण धनिकैश्च समन्वितम् । वास्तुचिह्नमिदं नाम्ना विश्वकर्मेति चोदितम् ॥ ४०
अथ नवमस्य देवेशनामस्य लक्षणम् ॥ कालीहरिहरादीनां दिक्पालानाञ्च सर्वशः। देवायतनसंयुक्ता प्राक्पश्चिममुखान्विता ॥ ४१ ॥ विशेषतो जलोद्गारिभूरियं परिकीर्तिता । पक्षद्वयगृहोपेताः त्रिंशद्वीथ्यः प्रकीर्तिताः ॥ ४२ ॥
वीथीद्वयञ्चैकपक्षमैच्छिका क्षुद्रवीथिका । स्रावधि जनता शस्ता भवति । यो नृपालयः, या च न्यायवादिनां सभा, ये च प्रामकार्यकराः कुलालाम्बष्ठरजकादयः, क्रयविक्रयजीविनो ये च वणिग्गणाः, सर्वेषां पाकादिकार्योचितपण्यशालाढ्या या चापणभूः, धनवन्तश्च ये कीर्तिताः, एतत्सर्वेरप्युपेतोऽयं ग्रामो विश्वकर्भग्रामस्सवपि ग्रामे पूत्तम इति अस्य ग्रन्थकर्तुराशयः प्रतीयते ॥ ४० ॥
___ अथ नवमला देवेशनामस्य लक्षणमाह - कालीति । विशेषतो जलाधारसहितायां यस्यां वास्तु भूमौ कालीहरिहरदिक्पालचण्डीगणपतिषण्मुखादीनां बहूनां देवानामायतनं क्रियते, प्राक्पश्चिमदिगतं मुख्यमार्गद्वयं च कल्प्यते । पक्ष द्वयगृहोपेतानां