________________
५७
काळीभवनकेनापि प्राच्यां दिशि समन्वितम् ॥ ३५ ॥
वापीकूपादिकैर्युक्तं निष्कुटैश्च समावृतम् । दक्षिणोत्तरगा वीथ्यो द्वात्रिंशत्संख्यगा मताः || ३६ ||
प्राक्प्रतीचीगता वीथ्यष्पट्संख्याश्च (नियोजिताः) । तत्तत्स्थलवशात्क्षुद्रवीथिका च प्रकीर्तिता ॥ ३७ ॥
मटमण्टपसंयुक्तं वैद्यालय समन्वितम् । पक्षद्वयगृहोपेता वीथ्यस्तास्संप्रकीर्तिताः ॥ ३८ ॥
षट्सहस्रावधिजनैरावृतञ्च समन्ततः । नरपालालयेोपेतं न्यायवित्समया युतम् ॥ ३९ ॥
च कारयत् । विपुलमीशगह वारुण्यां, कालीभवन च प्राच्या दिशि स्थापयेत् । कालीभवनकेनेति कप्रत्ययेन ईशगेहापेक्षया देवीभवनस्य यदिमाने किञ्चिद्धीनत्वमुक्तमिति भावः । अपि चायं ग्रामस्सर्वत्र बहुभिर्वापीकू तदाकादिभिरारामैश्चोपेतः कार्यः 11
किमात्र प्रामे प्राक्प्रतीचीगताष्पडेव विपुला वीथ्यः ! दक्षिणोत्तरगाः प्रतोत्यस्तु द्वात्रिंशदिति वीथीनामुपवथीनां च संख्येति भावः । यत्यादीनामावासयोग्यो मठः, देवोत्सवोचितो मण्टपादिः, वैद्यशाला प्रसिद्धा, एतैरुपेतो भवति । किचात्र मामे पूर्वोक्ता अष्टत्रिंशद्वीभ्यस्सर्वा अपि पक्षद्वयगृहान्विताः कार्याः । उपवीथीनान्तु नेदं लक्षणमुपपश्चते । किमात्र पट्सह
8. 3. 8