________________
५६
नाम्नायं मङ्गलग्रामो भण्यते शास्त्रपारगैः ॥ ३२ ॥
अथाष्टमस्य विश्वकर्मग्रामस्य लक्षणम् ॥ नदीतीरगता प्रायः उत्तमा वास्तुभूरपि । पूर्वपश्चिमगं द्वारमथवा दक्षिणोत्तरम् ॥ ३३ ॥
भूलाभे द्वाश्चतुष्कं स्याद्वप्रेणापि समावृतम् । चतुरश्रा वास्तुभूमिरथवा दैर्ध्य मानिता ॥ ३४ ॥ वारुण्यामैशगेहेन विपुलेन समन्वितम् ।
मण्टपाश्च । किव सर्वा अपि वीध्यस्तत्र तत्र सुखलभ्यजलाधारयुताच कार्या इति मङ्गलप्रामलक्षणार्थः ॥ ३२ ॥
अथाष्टमस्य विश्वकर्मग्रामस्य लक्षणमाह नदीतीरगतेत्यादिना । नदीतीरगतां पूर्वोक्तप्रकारेणोत्तमां वास्तुभूमिमासाद्य यदि तत्र प्रामनिर्माणमधः प्रदर्शितलक्षणोपेतं क्रियते सोऽयं विश्वकर्मप्राम इति नामभाग्भवति ॥
ग्रामस्यास्य
कथंभूतोऽयं ग्राम इति द्विवृणोति वास्तुभूमिश्चतुरश्रा वा दैर्घ्यान्विता वा स्वीकार्या । तस्यां भूमौ प्राच्यां वारुण्यां च दिशि समसृप्रसारं मार्गद्वयं कल्पनीयम | अथवा तादृशस्थल सौकर्याभावे दक्षिणोत्तरदिग्गतं वा मार्गद्वयकल्पनं सोपपीठं कार्यम् । यदि विशेषतो भूलाभस्तर्हि प्राच्यादिषु चतसृष्वपि दिक्षु द्वारचतुष्कं समसूत्र प्रसारं समलक्षणभाक्