________________
५३
ऐन्द्रयामपि च वारुण्यां वाप्यादिजलसंयुतः ॥ २३ ॥
दक्षिणस्यां पण्यवीथी तत्रैव ग्रामपालकः । भूपालाज्ञाकरी शाला कौबेर्या कल्पिता यदि || सोऽयं ग्रामश्शास्त्रविद्भिश्चतुर्मुख इतीरितः ॥ २४ ॥
अथ पष्टस्य पूर्वमुख ग्रामस्य लक्षणम् ॥
प्राच्यां मुखद्वारयुतः परिखावृतवास्तुकः । वैश्य संख्याधिक्ययुतः पण्यवीथीभिराकुलः ॥ २५ ॥
1
युतोऽपि शस्त एव, नानाजातिजनान्वितश्च भवति । ग्रामस्यास्य वारुण्यामैन्द्रयां च दिशि वापीतटाकजलाशयादिः कार्यः । दक्षिणस्यां विपणिः, तत्रैव ग्रामपालकार्यालयश्च कार्य इत्यर्थः । तत्समसूत्रप्रसारणे भागे उदीच्यां भूपाळाज्ञाकरी शाला कार्या । भूपालाज्ञाशाला तावत्तत्तन्न्यायादिकथन सभेत्यर्थः ; प्राडिव - वाकादिशालेति यावत् । इत्येवं चतुर्मुखप्रामलक्षणमुक्तं बोध्यम ॥ २४ ॥
अथ षष्ठस्य पूर्वमुख ग्रामस्य लक्षणमाह — प्राच्यामिति । यत्र स्थले मुखद्वारं प्राच्यां दिशि क्रियते । किञ्च यत्र स्थळे विशेषमहिता वास्तुभूमिः परिखावृता च क्रियते, तादृशोऽयं ग्रामः पूर्वमुख इति पूर्वैर्महर्षिभिरुदीर्यत इति श्लोकार्थः ॥