________________
५२ . अथ पञ्चमस्य चतुर्मुखग्रामस्य लक्षणम् ॥ चतुर्दिस्थचतुर्दारं मध्यभाग्देवमन्दिरम् । पञ्च वीथ्यः प्रतिदिशमथवा द्वादश स्मृताः ॥ २२ ॥ लघुवप्रेण संयुक्तो नानाजातिजनान्वितः ।
किश्च याम्यां दिशि क्षुद्रविपण्याद्युपेतः । सर्वत्रादिशब्देन कुला लाम्बष्ठरजकादिजातीनां ग्रामकार्यधुरन्धराणां गृहाद्युपेतत्वमुक्तं भवतीति प्रसिद्धिः । प्रायशोऽयं ग्रामस्सस्यभूमि. परिवृतश्च भवतीत्यादिलक्षणं यत्र संभवति सोऽयं पराकग्राम इति पूर्वेण संबन्धः ॥ २१ ॥
अथ पश्चमस्य चतुर्मुखग्रामस्य लक्षणमाह -चतुर्दिस्थचतुरमिति । यत्र प्रामे प्राच्यादिषु चतसृषु दिक्षु द्वारचतुष्कं क्रियते, ग्रामस्य मध्यमभागे देवतायतनं क्रियते, तदायतनं परितश्चतसृष्वपि दिनु पञ्च वीथ्यः कल्प्यन्ते । यथैका मुख्या प्रतालिका तदुभयतः प्रतोलिकाद्वयमिति । तथा चाहतिक्रमे विंशतिवीथिकायुतग्राम इति विवेकः ॥
अथवा प्रतिदिशं द्वादशवीथिकायुतो वा कल्प्यते, सदात्वेऽष्टचत्वारिंशद्वीथिकायुन इत्यर्थः । तदा महाचतुर्मुखग्राम इति नामभागिति केषाश्चिन्मतम । सोऽयं प्रामशास्त्रविद्भिः चतुर्मुखप्राम इतीर्यत इति भावः । किञ्चायं चतुर्मुखग्रामो लघुवप्रेण