________________
सस्यभूमिसमायुक्तो ग्रामो बाहुलिकः स्मृतः ॥ १८ ॥
अथ चतुर्थस्य पराकग्रामम्य लक्षणम् ॥ एकवीथ्या समायुक्तः कौबेर्यामैशगेहभाक् । सहस्रजनता यत्र विप्रहीना च भण्यते ॥ १९ ॥ यस्यां जलाशयोपेतः कार्षिकैबहुभिर्युतः । पश्चिमद्वारसंयुक्तः परिघासंघृतोऽपि वा ॥ २० ॥ याम्यभाविपणिश्चैव शालीसस्यरसान्वितः ।
सोऽयं ग्रामशास्त्रविद्भिः पराक इति कीय॑ते ।। कार्यः । किश्चायं ग्रामो प्रामाधिपालयसमेतो बहुजातिजनाकुलश्च । किश्चामुं ग्रामं परितः सस्ययोग्यभूमिश्च शस्तेति बाहुलिकप्रामलक्षणार्थः स्फुटः ॥ १८ ॥
अथ चतुर्थस्य पराकग्रामस्य लक्षणमाह- एकवीथ्येति । यत्र स्थले एका मुख्यवीथी अतिदीर्घा वर्तते, उत्तरस्यां दिशि कल्पितं शिवमन्दिरम् , प्रादक्षिण्यक्रमेणामृता चतुरश्रा वर्तुला वा वीथी क्रियते, यत्र विप्राणां संख्या हीनाऽन्येषां संख्याधि. क्यमाहतिक्रमेण किश्चिन्यूनाधिक सहस्रजनता गण्यते, यत्र च दक्षिणस्यां दिशि तटाकादिजलाधारः, प्रायशः कृषीवलैरेवाकान्तः, पारुण्यां मुख्यद्वारेण संयुतश्च । परिखासंवृतोऽपि वेत्युक्तत्त्वात्केषाचिन्मते पराकग्रामस्यास्य परिखावृतत्वमप्यभिप्रेतमिति भावः ॥