________________
५४
नानाजातिभिराकीर्णो नृपालयसमन्वितः। उदीच्यामथ वारुण्यां देवतायतनं शुभम् ॥ २६ ॥ तत्र तत्र जलोपेतत्रिंशद्वीथीभिरावृतः । उपवीथीयुतो वापि पुरद्वारेण संयुतः ॥ २७ ॥ ग्रामकार्यकरैरन्यैः संयुतश्च समन्ततः । नाना पूर्वमुखग्रामः कथितोऽयं महर्षिभिः ॥ २८ ॥
अथ सप्तमस्य मङ्गलग्रामस्य लक्षणम् ॥ प्राच्यामपि च वारुण्यां मुखद्वारसमन्वितः । प्राचीदिशः प्रतीचीगाश्चतस्रो वीथिकास्तथा ।। २९ ॥
किच्चायं प्रामो नानाजातिजनावासभाक् च भवति । राजकीयव्यवहारभवनान्वितश्च भवति । उदीच्यां वारुण्यां वा दिशि देवमन्दिरं स्थाप्यम् । तत्र तत्र तटाकवाप्याद्युपेतास्त्रिंशत्प्रतोल्यः कल्पनीयाः । कचिदुपीथ्यादिकल्पनमैच्छिकमिति । किञ्च ग्रामकार्यकरैः कुलालाम्बष्टरजकादिभिः गेहनिर्माण ञ्च तत्र तत्र यथास्थलं कार्यमिति । एतादृशलक्षणोपेतपूर्वमुखग्रामस्य पुरद्वारश्च महत्पीठोपेतं कार्यमित्येवं पूर्वमुखग्रामलक्षणार्थः ।। २८ ।।
अथ सप्तमस्य मङ्गलग्रामभ्य लक्षणमाह -प्राच्यामिति। यस्यां वास्तुभूमौ प्राच्या प्रतीच्याञ्च दिशि गमनागमनयोग्य मुखद्वारयुतं कल्प्यते । तथा प्राचीदिशः प्रतीचीगाश्चतस्रो