________________
४३
आच्छाद्य तां मृदा शिल्पी वास्तुनाथं हृदि स्मरेत् । ब्राह्मणांस्तोषयेत्पश्चाद्भोजनाद्यैर्विशेषतः ॥
सर्ववास्तुविदं शस्तमीरितं शास्त्रपारगैः ॥ २० ॥
समीकृतस्थले पूर्वमैशान्यां खनने कृते । वारुण्यामथवा शस्ते लग्नकाले विशेषतः ॥ २१ ॥ इष्टिकान्यसनं कार्य स्वस्तिघोषपुरस्सरम् ।
खननं कृत्वा तदवटे निक्षिप्य मृदाऽऽच्छाद्य ब्राह्मणान् भोजनादिदानैस्तोषयेदित्यर्थः । देववास्तुकर्मणि सौवर्णमेव भाजनं शस्तम । विप्रक्षत्रियवास्तुषु सौवर्ण राजनं वा शुभप्रदम् । वैश्यशूद्रवास्तुषु रजतनिर्मितभाजनं शस्तम् । अन्येषां वर्णानां वास्तुकर्मणि तु ताम्रनिर्मितमेव भाजनं शस्तमिति विवेकः । ब्राह्मणगर्भपट्टे पुस्तकरूपं यज्ञसूत्ररूपं वा एतदुभयं वा चित्रं लिखेत् । क्षत्रियगर्भपट्टे खड्गरूपं, चामररूपं (छत्रादिरूपं ) चित्रं लिखेत । वैश्यगर्भपट्टे तुलारूपं चित्रं लिखेत । शूद्रगर्भपट्टे सारं वस्त्रं च चित्रं लिखेत् । 'देवालये देवगर्भे रत्नन्यासो विशेषतः ' इत्युक्तत्वात्सति विभवे सर्वैरपि सर्वेषु वास्तुषु रत्नन्यासश्च ताम्रादिपट्टेन सह शुभप्रद इति संप्रदायविदः । चिराय यथा गर्भभाजनं न विनश्यति तथा तद्रक्षणोपायो गर्भन्याससमय एवोपायज्ञैरिशल्पाचार्यवगैः कारयेदिति भावः । सर्वमन्यत्सुगममिति ॥ २० ॥