________________
दैववास्तुषु सर्वेषु सौवर्ण भाजनं शुभम् ॥ १३ ॥ सौवर्ण राजतं वापि ब्रह्मक्षत्रियवास्तुषु । शूद्रजानां विशां शस्तं राजतं भाजनं मतम् ॥ १४ ॥ अन्येषां वास्तुभूमौ तु ताम्रजं भाजनं शुभम् । भाजनं पट्टिका वापि पृथुपट्टमथापि वा ॥ १५ ॥ स्त्रीगर्भेण यथा जीवो वर्धते भुवि नित्यशः । तथा भगर्भमाहात्म्यात् जीवराशिस्तु वर्धते ॥ १६ ॥ तत्रत्यानां सुखं दिव्यं यावद्गर्भो न नश्यति । तस्माद्दर्भ शिल्पिवरैश्शाश्वतं कारयेद्भुवि ॥ १७॥ तच चिहूं लिखेत्पट्टे गन्धपुष्पार्चनं तथा ! तत्पढें भाजने न्यस्य तन्मञ्जूषागतं नयेत् ॥ १८ ॥ वास्तुभूमध्यदेशे तां मञ्जूषां स्थापयेवुधः ।
गन्धमाल्याचेनं शस्तं जयशब्दपुरस्सरम् ॥ १९ ॥ । स च गर्भन्यासो ब्राह्मणगर्भः क्षत्रियगर्भः वैश्यगर्भः शूद्रगर्भ इति चतुर्धा भवति । देवालयबास्तुभूमौ कार्यों देवगर्भन्यासस्त्वन्य एव भवति । सौवर्णादिनिर्मिते पट्टे यथाविभवं पृथुपट्टे वा तत्तजातियोग्यलक्षणानि विलिख्य तं पढें सौवर्णादिरचितभाजनान्तरे विन्यस्य तच्च भाजनमयोमयपेटिकायां संस्थाप्य तान्तु पटिकां शुभे काले वास्तुमध्यदेशे