________________
४१
समीकृते स्थले पूर्वमैशान्यां खननं शुभम् । वारुण्यामथवा कार्य शुभकाले विशेषतः ।। ९ ।।
इष्टिकान्यसनात्पूर्वं पूरयेद्दर्भमादरात् । स च विप्रादिभेदेन चतुर्धा सन्निगद्यते ॥ १० ॥ ब्राह्मं गर्भ पूरयेत्तु पुस्तकैर्यज्ञसूत्रकैः । क्षात्रं गर्भ पूरयेच्च खड्गच्छत्रादिभिर्दृढम् ॥ ११ ॥
वैश्यं गर्भं पूरयेच्च तुलाद्रव्यादिकैरपि । शूद्रं गर्भ पूरयेच्च सीरकैर्वस्त्र कैरपि ।। १२ ।।
देवालये देवगर्भे रत्नन्यासो विशेषतः ।
संप्रतिपन्नानि 1 महोक्षैः सीरादिना भूसमीकरणादिकन्तु निर्माणादीनां सौकर्यावहमिति भावः । पुण्याहं वाचयेदित्यादिश्लोकाः स्पष्टार्थाः ॥ ८ ॥
समीकृत इति । पुरनगरमामादितत्तद्वास्तुनिर्माणाय परीक्ष्य स्वीकृते स्थले श्वेतवर्णवृषभैरुह्य मानसीराद्यैः निम्नोन्नतरहितं यथा तथा समीकृते सति प्रायशो देशेषु ऐशान्यां कचित् वारुण्यां दिशि शुभकाले खननं कार्यम | किमर्थं १ प्रथमेष्टिकान्यसनार्थम् । अयम प्रयते । तादृशप्रथमेष्टिकान्यासात् पूर्वमेव वास्तुभूमध्यदेशे गर्भद्रव्यनिक्षेपणं कार्यम् ॥
1
5. 5. 6