________________
४०
नवा भूरथवा पूर्व प्रजाध्युषितभूर्यदि ॥ ३ ॥ नरेन्द्रैग्रम निर्माणकार्यार्थ स्वीकृता भवेत् । वास्तुनाथार्चनं शस्तं श्रोत्रियैर्वेदपारगैः ॥ ४ ॥ पुण्याहं वाचयेत्पूर्व विप्रैरागमवेदिभिः । प्रोक्षये तज्जलैर्दिव्यैरशान्तिहोमं च कारयेत् ॥ ५॥
वास्तुस्वरूपं विज्ञाय हेमगन्धाक्षतादिभिः । वास्तुनाथार्चनं कुर्यात्कारयेद्वा द्विजोत्तमैः || ६ ||
भूदेवीमर्चयेत्पश्चाद्गन्धपुष्पाक्षतादिभिः । तदनुज्ञां समासाद्य शुभकाले प्रसन्नधीः ॥ ७ ॥
भूसमीकरणं कार्यं महोक्षैश्वेतवर्णकैः । बलिकर्मविधानञ्च राष्ट्र्क्षेमकरं भवेत् ॥ ब्राह्मगान्भोजयेत्पश्चात्तोषये दक्षिणादिभिः ॥ ८॥
अनन्तरकरणीयमाह नवेति | आदी स्वेनैव गृहीता नवीना भूमिर्वा पूर्वमेव जलवासान्विता वा भूमिर्यदि तावन् पुरनगर निर्माणाय यदि गृह्येत, तर्हि नराधिपो वा यजमानो वा तादृशभूमौ शयानस्य वास्तुनाथस्यार्चनं वेदविद्भिर्ब्राह्मणोत्तमैर्यथाविधि कारयेदित्यर्थः ॥ ४ ॥
तदनन्तरकरणीयमाह पुण्याहं वाचयेदित्यादिना - पुण्याहवाचनजलसंप्रोक्षणवास्तुनाथाच नवलिकर्मविधानानि शास्त्र