________________
अथ भूमिग्रहण स्थनं नाम
षष्ठोऽध्यायः ॥
परीक्षकैश्शास्त्रविद्भिर्नानोपायैः परीक्षिताम् । उत्तमां मध्यमां वापि भूमिं प्राप्य बुधोत्तमः ॥ १ ॥ श्वेतमाल्याम्बरधरैः श्वेतगन्धानुलेपनैः । भृत्यैश्शुद्धवाग्भिस्तल्लक्षणसमन्वितैः ॥ २ ॥
शुभे मुहूर्ते सल्ल खनित्रादीनथार्चयेत् ।
॥ षष्ठोऽध्यायः ॥
अथ परीक्षिताया भूमेस्स्वीकरण प्रकारकथनात्मकं पष्ठाध्यायं विशिनष्टि परीक्षकैरित्यादिना - देवालयायोत्तमभूरेव स्वीकार्या । मनुष्यालयाय तु उत्तमा । तदलाभे मध्यमा च भूः स्वीकार्यत्याद्याप्तपरीक्षकैर्बहुविधैरुपायैस्तत्तत्स्थलानुकूलैः परीक्षिताया भूमेः स्वीकरणं तु विधिवदेव कार्यमिति न्यायमनुसन्धाय तादृशभूपरिप्रहप्रकारं कथयति — नगरपुरप्रामादिवास्तुयोग्येयं भूरिति परीक्षकैरिशल्पिवर्यैः परीक्षितां निर्दिष्टां भूमिं समीकुर्यात् । तत्पूर्वं तादृशसमीकरणोपकारभूतानां खनित्राद्यायुधानामर्चनं तु सल्लक्षणान्वितैर्भृत्यैः कारयेदित्यनुष्ठानमिदं देवागारमनुष्या
गारयोरुभयोरपि तुल्यमिति भावः ॥ २ ॥