________________
वराहै रासभेप्रेस्सिलाधैर्दुष्टजन्तुभिः ॥ २५॥ भल्लूकैर्वनमार्जालैमूषकैश्चिकादिभिः। भूमिरध्युषिता वा सर्ववास्तुषु हानिदा ॥ २६ ॥ श्मशानभूसमीपस्था तुषभारैस्समन्विता । कम्पेन भेदिता भूमिरग्निदग्धा च सर्वतः ॥ २७ ॥ भूमिरेवंविधा वा कार्यज्ञैश्च शुभेप्सुभिः । इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे
भूपरीक्षाक्रमकथनं नाम
पञ्चमोऽध्यायः ॥ पृथुगादिनिम्नोन्नतस्थली भूमिश्च वास्तुकर्मणि वयेति भावः । किञ्च वराहादिभिर्दुष्टसत्वैरभ्युषिता भूमिश्च वा । भूकम्पेन तत्र तत्र खण्डिता भेदिता च भूमिस्तथाग्निज्वालाभिः समन्ततस्तापिता च भूमिश्शुभेप्सुभिर्वज्येति भावः ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां
विश्वकर्मवास्तुशास्त्रव्याख्यायां
पञ्चमोऽध्यायः॥