________________
सा भूमिरुत्तमा ज्ञेया त्रिरात्राङ्कवर्धिनी । सा मध्यमा च विज्ञेया पञ्चरात्राङ्कुरप्रदा ॥ २२ ॥
मन्दारप्रदा भूमिरधमा चेति गद्यते ।
सा वर्ज्या सर्वकार्येषु बीजानां क्षयकारिणी ॥ २३ ॥
वर्ज्या कण्टकवृक्षैश्च तिग्मवृक्षैर्विदारकैः । वल्मीकेन समायुक्ता भूमिरस्थिगणैस्तु वा ॥ २४ ॥ रन्धान्विता च भूर्वय गर्ताथैश्च समन्विता ।
पुनरपि प्रकारान्तरेणोत्तमभूमिलक्षणमाह - सेति । आढ कादिबीजे उसे सति त्रिरात्रकालात्पूर्वमेव तदङ्कुरकारिण्युत्तमा भूमि: । पश्चरात्रेष्वङ्कुर प्रदा मध्यमा भूमिः । पञ्चषणिशागमनानन्तरं क्रमशेो मन्दं मन्दमकुर प्रदर्शिनी भूमिभरधमा । उप्तबीजानामङ्कुरमप्रदश्यैव तत्क्षयकारिणी भूमिस्तु सर्वथा अधमा । सर्वकार्येष्वपि दूरतो वर्ज्येति भावः ।। २३ ॥
एतावता प्रबन्धेनोत्तमभूमेर्लक्षणं बहुधाविष्कृत्ये दानी - मधमभूमिलक्षणमाचष्टे - वर्ज्येत्यादिना । कण्टक वृक्षयुक्ता भूमिस्तथा तीव्रोष्णकरवृक्षयुता भूमिः पत्रादिभिहिंसाकरैस्तरुभिर्युता भूमिश्च शुभे । भूमिरस्थिशकलयुता भूमिस्सर्वत्र रन्ध्रो परन्धयुक्ता भूमिः
तथा वल्मीकयुता