________________
पुरन्ध्रीभिश्च कन्याभिरवटे जलसेचनम् ॥ २२॥ कारयेत्कार्यकालज्ञश्शिल्पी सर्वेषु वस्तुषु । दीपारोपं हेमवर्ष नानादानानि कारयेत् ॥ २३ ॥ सर्वमङ्गलघोषैश्च स्वस्तिशब्दैश्च शिल्पिराट् । वास्तुं प्रदक्षिणीकृत्य वरवस्त्रोत्तरीयकः ॥ २४॥ मङ्गलाचरणं कृत्वा प्राप्तस्वर्गादिदक्षिणः । कङ्कणञ्च करे धृत्वा ज्ञापयेत्कशतक्षको ।। २५ ।। सम्यक्तप्तं वक्रहीनं ककशं कुङ्कुमान्वितम् । सूत्रप्रसारे कलिते वास्तुनिर्माणभूमिः ॥ २६ ॥
ऐशान्यां विन्यसेत्प्राज्ञः ककशं तं प्रसन्नधीः । स्मृत्वा मनसि कार्यज्ञो देवता मङ्गलप्रदाः ॥ २७
अधोभित्त्यादिकं कृत्वा दृढीकुयाच्च तद्बुधः । रक्षयेच्च यथा तत्र दृपणं न प्रमज्यते ॥ २८ ॥
समीकृत इति । शुभकाले पुरन्ध्रयादिभिरवटार्थ जलसेचनं कार्यम् । तदनु पूर्वोक्तसमीकृतस्थले ऐशान्यां तादृश. मक्टं कृत्वा समीकृतस्थले ककशं सुतप्तं इष्टिकां ककशकारैभित्तिकारैश्च तक्षकैश्च विन्यस्य तदुपरि भित्तिन्यासं कारयेत् । अयमेव प्रथमेष्टिकान्यास इत्युच्यत इति । शेषं सुगममिति । तदा