________________
तथोदुम्बरमधाब्या श्वेतवर्णा च भूरपि ॥ ८॥ (उदीच्यां च जलोपेता भरियं चोत्तमा मता ।) कषायमृत्तिका भूमी रक्तवर्णा च भूपि ॥९॥ पूर्वभागजलोपेता तथाश्वत्थद्वैमान्विता । विपुला लोहयुग्भूमिः क्षत्रियाणां हितप्रदा ॥ १० ॥ नातिकृष्णा न रक्ता च प्लक्षद्रुमसमन्विता ।
भूमिर्देवानां विप्राणां च शुभप्रदा । देवालयाथ ब्राह्मणगेहाथं च योग्येति भावः । तथोदुम्बरवृक्षसंपन्ना भूः श्वेतवर्णा च भूः उदीच्यां दिशि नदीतटाकादिबलोपेता च भूरेवमायूत्तमा भूमिर्देवविप्रशुभकरीति भावः । एतादृशैश्चतुर्विधलक्षणयुक्ता भूमिमग्यति भावः । एवमुत्तरत्रापि ज्ञेयम् । एकलक्षणसमन्विता च भूः तेषां शुभप्रदेति सिद्धान्तः ॥ ८ ॥
. अथ क्षत्रिययोग्यभूमिलक्षणमाह - कषायमृत्तिकेति। कषायरसयुक्ता भूमिः तथा रक्तवर्णा भूमिः तथा पूर्वायां दिशि नचादिजलोपेता भूमिरश्वत्थ दुमाढ्या भूमिर्विशेषतो वैल्यशालिनी भूमिः कनकादिलोहखनियुक्ता च भूमिः क्षत्रियाणां जयादिसर्वसंपत्कारिणीति भावः । एतारशसर्वलक्षणयुक्ता भूमिरपि दुर्लभेति भावः । एकद्वियादिलक्षणभागपि भवनादिनिर्माणाय समायेति ॥ १०॥