________________
परीक्षयेद्वास्तुभूमिमतस्सल्लक्षणान्विताम् ॥५॥ उत्तमा मध्यमा भूमिरधमा चेति सा त्रिधा । विभक्ता गुगभेदेन शास्त्रज्ञैः पूर्वसूरिभिः ॥ ६ ॥ रसवर्ण स्पर्शगन्धैरन्यैरपि च लक्षणैः । परीक्षयदिमां भूमि वास्तुयोग्यां बुधोत्तमः ॥ ७ ॥ माधुर्यमृत्तिका भूमिवविप्रहितप्रदा।
परीक्षयेदिति । अतः पूर्वप्रतिपादितक्रमेण कालभेदेन गर्भवेगवशेन च भूम्याः कचित्सुखप्रदत्वं, कचिदमौख्यप्रदत्वमपि सञ्जातम । तस्माद्बुधोत्तमम्सुखादि मङ्गलाशंसी पुमान देवालयनगरपुरग्रामभवनादिनिर्माणसमये निर्माणात्पूर्वमेव तादृशभूम्यास्सदसल्लक्षणं परीक्ष्योत्तमां भूमिमेवाश्रयदित्युपदेशः ।।
__ सा च भूमिरुत्तमा, मध्यमा अधमा चेनि तत्तद्गुणादिभिखिवा विभता । देवालयाय उत्तमा भूरेव प्राह्या । मनुष्यालयाय तु उत्तमा मध्यमा भूरपि संग्राह्या । सर्वत्र अधमलक्षणान्विता भूमिरवश्यवयेत्युपदेशः । भूम्याः परीक्षणं तावत् रसेन, वर्णेन, स्पर्शेन, गन्धेन चान्यैश्च व्यक्ताव्यक्तैर्लक्षणैः कार्यमिति शास्त्रज्ञाः पूर्वाचार्या वदन्तीत्यर्थः ॥ ७ ॥
अथ ब्राह्मणादिचातुर्वर्ण्यभेदेन प्रथमतो भूमिलक्षणमाह माधुर्यमृत्तिकेत्यादिना श्लोकषटकेन - मधुरजलसंयुक्ता