________________
अथ भूपरीक्षाकथनं नाम पञ्चमोऽध्यायः॥
पुरा भूमिरियं धात्रा विशाला च वसुन्धरा । जलाधारान्विता सृष्टा सशैलवनकानना ॥१॥ हिमवद्विन्ध्यमलयैरन्यैः कुलमहीधरैः । कनकायैर्दिव्यलोहेगर्भिता च समन्ततः ॥२॥ तथापि भूगर्भसारात् क्वचित्खादुरसान्विता । क्वचिद्रसेन हीना च क्वचिदुष्णा च शीतला ॥ ३ ॥ क्वचिद्भीकरसत्वाट्या कचित्सत्वखगावृता । कचिदत्यन्तसुखदा कचिदुद्वेगकारिणी ॥ ४ ॥ इत्येवं बहुधा जाता कालभेदेन भूरियम् ।
॥पञ्चमोऽध्यायः॥ अथ भूपरीक्षाकथनात्मकः पञ्चमाध्यायः प्रारभ्यते - पुरेति । पुरा जगत्सृष्टिकाले धात्रा विश्वकर्ता ब्रह्मणा इयं भूमिर्विशाला वसुधारिणी च स्वादुजलान्विता शैलोद्यानलोहादिसवस्तुभरिता च सृष्टा, तथापि भूम्याः गर्भवेगवशात कचित्प्रदेशे स्वादुजलान्विता, कचित् कटु जलान्विता, कचिज्जलहीना च भूरियं सजातेत्यादिस्सुगमार्थः ॥ ४ ॥