________________
३४
दक्षिणायां जलोपेता नातिनिम्नोभतस्थला ॥। ११ ॥ भूरियं वैश्यजातानां बलसंपत्करा मता । (मृत्स्ना कृष्णवर्णा वटवृक्षसमन्विता ॥ १२ ॥ वारुण्यामुदकोपेता शूद्राणां क्षेमकारिणी । ) इत्येवं जातिभेदेन कथितं भूमिलक्षणम् ॥ १३ ॥ श्रीवृक्षैर्निम्बकाशोकै रसनैः क्रमुकैरपि । सौवीरैरिगुदीभिश्च रसालैजुलैरपि ॥ १४ ॥
अथ वैश्ययोग्य भूमि लक्षणमाह - नातिकृष्णेति । नातिकृष्णवर्णा भूमिः तथा च नातिरक्तवर्णा, तथा प्लस वृश्नसमन्विता च भूमिस्तथा दक्षिणायां दिशि नद्यादिजलोपेता भूमिर्नातिनिम्नोन्नतस्थलान्विता च भूमिः वैश्यानां सर्वसंपत्प्रदा भवेत् ॥
अथ शूद्र योग्य भूमिलक्षणमाह -- कटुमृत्स्नेति । कटुजलान्विता भूमिः कृष्णवर्णा च भूमिस्तथा वटवृक्षसमन्विता च भूमिस्तथा वारुण्यां दिशि नद्याद्युदकसमन्विता च भूमिस्तथा कठिनस्पर्शाच भूमिश्शूद्रजातानां सर्वमकारिणीति भावः । इत्येवं चातुर्वर्ण्यभेदेन भूभिलक्षणमुक्तं भवति ।। १३ ।
अथ प्रकार ( न्तरेण सर्वजनयोग्यभूमिलक्षणमाह श्रीवृक्षैरित्यादिना - इह लोके विधात्रा स्टेषु तृणादिमहद्वस्तुषु केचित् वृक्षाः कस्मिंश्विद्देशविशेष एवात्यन्तं फलिता भवेयुः । तादृशवृक्षा एव