________________
गजदन्तप्रभिन्नाश्च वक्रा भिन्नास्तथा वने ॥ १९ ॥ पक्षिहीना दिवाभीतैरूषिताश्च (द्विजाधमैः) । विगुता भिन्न पक्षाश्च योधानामिषुभिहताः॥२०॥ कण्टकावृतदेहाश्च न प्रशस्ताः प्रकीर्तिताः। उदीच्यां शयिता वृक्षा देवालयशुभप्रदाः ॥ २१ ॥ ऐन्द्रयां दिश्यथ वारुण्यामुदीच्यां वा विशेषतः ।
नाडी वृक्षा इत्यादि व्याख्यायते । यथा - नाडी वृक्षाः सिराप्रधाना वृक्षाः मिराबाहुल्यवन्तो वृक्षा इति यावत् । पिन्नवृक्षा अत्यन्तं सूक्ष्मकृशवृक्षाः; शाग्वाहीनवृक्षा इति केचित । गुलिकाभिन्नदारयो गुलिकाभि.ष्टल गुडादिभिर्भिन्नशाखा इत्यर्थः । तथा गज दन्तेन खण्डिताः, वने स्वयमेव वक्रिमाणमुपेत्य प्रवृद्धा वृक्षाः, तथा पक्षिभिरनध्युपिना वृक्षाच, तथैवोलू कादिभिरधमैः पभिभिराक्रान्ता वृक्षाश्च, तथा वज्रपातेन, गजगार्जितेन, विद्युत्स्फुरणवेगेन च भिन्नाः क्लान्ता वृक्षाश्च, तथा व्याधादीनां शरव्यभावं गताश्च वृक्षाः, तथा दक्षिणशिरस्कतया शयिता मुण्डिता वृक्षाः बहुकण्टकवन्तो वृक्षाश्चैताशा वृक्षा मनुष्यालयस्थापनयोग्या न भवन्ति । चित्रादिलक्षणकर्मण्यपि नाहंतां प्राप्नुवन्तीति शिल्पसमयः ॥ २१ ॥
उदीच्यामिति । उदीच्यां दिशि शयिता वृक्षाः देवालय