________________
उपपीठादिनां सिलवक्त्रादीनाश्च मेशिनाम् । अन्येषां शिल्पकार्याणाममी शस्ताः प्रकीर्तिताः ॥
मधूकं तिनिशं पूतिमन्यं क्षीरतरुं तथा। तिर्यग्दारी चित्रकार्ये योजयेम कदाचन ॥ १८ ॥
नाडीवृक्षाः पिनवृक्षाः गुलिकाभिन्नदारवः ।
स्थापिता वतुलाकाराः फलकाः । पूतिका तावत् खट्वाङ्गादिषु तत्र तत्र गुम्फिता बम्बरनामभाक रक्तदारुखण्डः । तन्तुवाजिकस्तु स्तम्भफलककवाटतिर्यग्दार्वादिषु क्रियमाणा रेखा या तस्या उपष्टम्भकभूता सूक्ष्मवारिका । कुम्भिनस्तावत्पाश्चालिकापुत्रिकादयः । उपपीठः स्तम्भानामधःस्थापितः पृथुकः । सिमवक्त्रादयः प्रसिद्धाः । मेशिनस्तु अयाकीलघटनयोग्याः फलकाः । इत्यादिशिल्पकार्येषु पूर्वोक्ता आम्रातकादिभूरुहश्शस्ताः दृढाः कार्यसौकर्यशालिनो द्रष्तृणां नयनानन्दकारिणः चिरकालवर्तिन इत्येतेषां स्वरूपगुणा उक्ता भवन्ति ॥ १७ ॥
__ मधूकमिति । मधूकादीन्क्षीरप्रधानवृक्षान् तिर्यग्दारुस्थापने सालभञ्जिकादिचित्रकायेंवपि न योजयेदिति भावः । कुत इति चेत्- तादृशक्षीरप्रधानवृक्षाणां अतिविल्यं सर्वत्र प्रसिद्धम् । किञ्च तावत्कालक्रमेणान्ततः क्षीरप्रसरणवान शीर्णाः, भिन्ना', वक्रा वा भवेयुरिति भावः ॥ १८ ॥