________________
शयिताः पातिता वृक्षाः प्रशस्ता मानुषालये ॥ २२ ॥ पतिता दक्षिणाशायां तथा प्रेतवनं गताः। दुष्टभामिस्थिता वृक्षा वा निन्द्याश्शुभेप्सुभिः । नागाधिपं वृक्षपति पयसा पायसेन च । तपयित्वा विशेषेण वने छिन्द्यावुधोत्तमः ॥ २४ ।। काले शुभे स्वस्तियोपैः खण्डितांस्तान्वनान्तरात् । शुभ्रवर्हेमशृङ्गवृषभैहियेद्बुधः ॥ २५ ॥ स्थापयेच्छुद्धदेशे तानधिवासाय निश्चितः ।
संवत्सरो(रं) वा षण्मासान् मासत्रयमथापि वा ॥२६॥ निर्माणविषये प्रशस्ताः तथैवेन्द्रशामुदीच्यामथ, वारुण्यां वा दिशि स्वयं पतिताः पातिताश्च वृक्षाः मनुष्यालयादिनिर्माणकार्येषु शुभप्रदा इति भावः । दक्षिणादिङ्मुखतया पतिता वृक्षाः, श्मशानभूमिस्थिता वृक्षाः, तथा म्लेच्छाध्युषितभूमिस्थिताश्व वृक्षा न शुभफलप्रदा इति भावः । देवालयनिर्माणादिषु तादृशदोषदुष्टा वृक्षा अवश्य परिहार्या इति वैदिकाः ॥ २३ ॥
नागाधिपमिति । स्वस्वकार्योचितानां तरूणां छेदनानन्तरं तादृशतरूणामधिनाथं अनन्तं भुजगेशं पयसा, पायसेन वा विशेषतोऽभ्यर्च्य तर्पयित्वा तान्वृक्षान् खण्डशश्छेदयेत् । तदनु तथा खण्डितान् दारुखण्डान् सुवर्णशृङ्गैश्शुभ्रवणः वृषभैरूह्य