________________
२४
पूजयित्वा विशेषेण दारुसङ्ग्रहणे रतः । दिक्पालानायूधाधीशानर्चयेद्गन्धपुष्पकैः ॥ ५ ॥ सह मङ्गलघोषेण काननं प्रविशेद्बुधः । शुद्धश्शान्तमना भूत्वा नववस्त्रोत्तरीयकः ॥ ६॥ देवानामाप देवीनां ध्वजस्तम्भाय दारुकान् । आहरेन्मन्त्रघोषेण सर्वलोकहितप्रदान् ॥ ७॥ बकुलस्तिनिशस्सालः कोविदारश्च केमरः। श्रीपर्णस्मप्तपर्णश्च कुद्दालः पिण्डकस्तथा !! ८ ।। देवालयेष्विमे शस्ताश्शुभदाः संप्रकीर्तिताः । भल्लाटस्य मृगस्यापि मित्रस्य वरुणस्य च ॥ ९ ॥ जयन्तस्य च पूष्णश्च गन्धर्वस्य च शूलिनः । वास्तुनाथस्य देवस्य देवीनाच विशेषतः । अंशभूता इमे वृक्षाः शास्त्रविद्भिरुदीरिताः ॥१०॥
समहः कार्य इति सिद्धान्तितः । तदा स्वगुरुं स्थपति दिशापतीन् आयुधाधिपान देवांश्च गन्धादिभिरभ्यर्च्य मङ्गलवाद्यघोषण मुखरितदिशस्सन् देवताध्वजदार्वादिकानाहरदिति शिल्पसमयः ॥ ७ ॥
वकुल इति । वकुलादय इमे प्रशस्ताः वृक्षाः देवालयनिर्माणेषु शुभदाः कीर्तिताः । किं चामी भूरुहो भल्लाटादितत्त