________________
आम्रातको' मधूकश्च नागरङ्गश्च तिन्दुकः । खदिरः पूतिको वेणुः पाटलश्च विभीतकः ॥ ११ ॥ कर्णिकारश्च सरलः कर्कन्धूस्तिनिशस्तथा । काश्मरी च रसालश्च पारिभद्रश्च केसरः ॥ १२ ॥ श्रीपर्णस्तिलाश्चापि नक्तमालश्च भद्रकः । अन्ये च क्षीरवृक्षा ये निम्बाद्याश्च सुगन्धिनः ।। नृणामालययोग्यास्स्युश्शुभदाः संप्रकीर्तिताः ।
मनुष्यवास्तुभूमीशा धनपालादयश्शुभाः ॥ १४ ॥ स्थानविशेषदेवानां अंशभूताः प्रधानदेवदेवीनां च सत्त्व सान्निध्यादिहेतव इति शिल्पशास्त्रविदां सिद्धान्तः । देवालयनिर्माणाय सगृहीतायां शुद्धभूमौ प्राच्याः भल्लाटाख्यो देवविशेषोऽधिपतिः ।
आग्नेय्याः मृगदेवः, दक्षिणस्या मित्रदेवोऽधिपतिः । निर्ऋतिदिशो वरुणदेवोऽधिपतिः । वारुण्या दिशो जयन्तोऽधिपतिः । वायव्या दिशो रविदेवोऽधिपतिः । उदीच्या दिशो गन्धर्वोऽधिपतिः । ऐशान्याश्शिवदेवोऽधिपतिः । मध्यभूमेर्वास्तुनाथोऽधिपतिरित्येवं क्रमो बोध्यः ।। १० ॥
आम्रातक इति । आम्रातकाद्या भूरुहा इमे मनुष्यालय. योग्याश्शुभदाश्च । मनुष्यालयनिर्माणाय सङ्ग्रहीताया भुवो धनपालमित्रयक्षकुबेराः चत्वारो देवाः क्रमेण चतुर्णा दिशा
1. Spondias Mangifera.
-
-
-
-
B.s.4