________________
२३
अथ द्रव्यसणकथनं नाम
चतुर्थोऽध्यायः ॥
सर्वनिर्माणकार्याणां द्रव्यमाद्यस्सखा मतः । तस्मात्संपादयेद्विद्वान्सद्द्रव्यं शुभवर्धनम् ॥ १ ॥ धनवस्तुप्रभेदेन तद्द्द्रव्यं द्विविधं स्मृतम् । धनेन मानयेद्भृत्यान् शुभवाक्यैश्च नित्यशः ॥ २ ॥ इष्टिका च सुधा लक्ष्णा पारिभद्रादिदारवः । अयःकीलादयश्चान्ये वस्तुसंज्ञा उदीरिताः ॥ ३ ॥ दारुसङ्ग्रहणं शस्तं शुभकाले विशेषतः । स्वगुरुं स्थपतिं धेनुं श्रोत्रियान्वेदपारगान् ॥ ४ ॥
॥ चतुर्थोऽध्यायः ॥
अथ द्रव्यसङ्ग्रहणलक्षणकथनात्मकं चतुर्थाध्यायमारभते-सर्वेति । शुभवर्धनम् धनधान्यसुतादिसकल संपद्विवृद्धिकरम्, न्यायमार्गर्जितम्, पापरहितम् । सद्द्रव्यस्य सत्फलजनकत्वमुपपादितम् । तच द्रव्यं धनरूपेण वस्तुरूपेण च द्विविधं भवति । धनेन सान्त्ववचसा च भृत्यान् भवननिर्माणादिकार्येषु नियोजितानित्यशः सन्तोषयेत् । इष्टिकासुधादारवोऽन्येऽयः कीलादयश्च वस्तूनीति व्यवह्रियन्त इति भावः || ३ ||
दारुसम् ग्रहणमिति । कालान्तरे गृहभवननिर्माणादिके शक्येऽपि यदि अत्यन्तं शुभकाले प्राप्ते तदा काननात दारु