________________
जैन पूजा पाठ सप्रह
मुमुक्षुर्वन्धमोक्षज्ञो जिताक्षो जितमन्मथः । प्रशान्तरसशैलूषो भव्यपेटकनायकः ॥ ५ ॥ मूलकर्ताऽखिलज्योतिर्मलनी मूलकारणम् । आप्तो वागीश्वरः श्रेयाञ्छायसोक्तिनिरुक्तवाक् ||६|| प्रवक्ता वचसामीशो मारजिद्विश्वभावविन् । सुतनुस्तनुनिर्मुक्तः सुगतो हतदुर्नयः ॥ ७ ॥ श्रीशः श्रीश्रितपादाब्जो वीतशीरभयङ्करः । उत्सन्नदोषो निर्विघ्नो निश्चलो लोकवत्सलः ॥ ८॥ लोकोत्तरो लोकपतिर्लोकचक्षुरपारधीः । धीरधीषु द्धसन्मार्गः शुद्धः सूनृतपूतवाक् ।। ६ ।। प्रज्ञापारमितः प्राज्ञो यतिनियमितेन्द्रियः । भदन्तो भद्रकृद्रः कल्पवृक्षो वरप्रदः ।। १० ॥ समुन्मूलितकारिः कर्मकाष्ठाशुशुणिः । कर्मण्यः कर्मठः प्रांशुहेयादेयविचक्षणः ॥ ११ ॥ अनन्तशक्तिरच्छेद्यस्त्रिपुरारित्रिलोचनः । त्रिनेत्रस्त्र्यम्बकाच्यक्षः केवलज्ञानवीक्षणः ॥१२॥ समन्तभद्रः शान्तारिधर्माचार्यो दयानिधिः । सूक्ष्मदर्शी जितानङ्गः कृपालुर्धर्मदेशकः ॥१३॥ शुभंयुः सुखसाद्भतः पुण्यराशिरनामयः । धर्मपालो जगत्पालो धर्मसाम्राज्यनायकः ॥१४॥ इति दिग्वासाद्यष्टोत्तरशतम् ।। १० ।। अर्घम् । धाम्नां पते तवानि नामान्यागमकोविदः । समुचितान्यनुध्यायत्पुमान्यूतस्मृतिर्भवेत् ॥१॥ गोचरोऽपि गिरामासांत्वमवाग्गोचरो मतः। स्तोता तथाप्यसंदिग्धं त्वत्तोऽभीष्टफलं भजेत् ।।२।।