________________
चराचरगुरुर्गीप्यो गूढात्मा गूढगोचरः। सद्योजातः प्रकाशात्मा ज्वलज्ज्वलनसप्रभः ॥६॥ आदित्यवर्णो भर्माभः सुप्रभः कनकप्रभः । सुवर्णवणों रुक्माम. सूर्यकोटिसमप्रभः ॥७॥ तवनीयनिभस्तुङ्गो बालार्काभोऽनलप्रभः । सन्ध्याभ्रवद्महेमाभस्तप्तचामीकरच्छविः ॥८॥ निष्टप्लकनकच्छायः कनत्काञ्चनसन्निभः । हिरण्यवर्ण स्वर्णाभः शातकुम्भनिभमभः ॥ ६ ॥ घुम्नाभो जातरूपामस्तप्तजाम्बूनदद्युतिः । सुधौतकलधौतश्री: प्रदीप्तो हाटकद्यतिः ॥ १०॥ शिष्टेष्टः पुटिदः पुष्टः स्पष्टः स्पष्टाक्षरः क्षमः । शत्रुघ्नोऽप्रतिघोऽमोघः प्रशास्ता शासिता स्वभूः।।११।। शान्तिनिष्ठो मुनिज्येष्ठः शिवतातिः शिवप्रदः । शान्तिदःशान्तिकृच्छान्तिःकान्तिमान्कामितप्रदा१२॥ 'योनिधिरधिष्ठानसप्रतिष्ठः प्रतिष्ठितः । सुस्थिरः स्थावरः स्थाणुः प्रथीयान्प्रथितः पृथुः ॥१३॥
इति त्रिकालदर्यादिशतम ॥ ६ ॥ अर्घम् । दिग्वासा वातरशनो निग्रन्थेशो निरम्परः । निष्किञ्चनो निराशंसो ज्ञानचक्षुरमोमुहः॥१॥ तेजोराशिरनन्तौजा ज्ञानाधिः शीलसागरः । तेजोसयोऽमितज्योतिर्योतिमूर्तिस्तमोपहः ॥ २ ॥ जगच्चूडामणिर्दीत. सर्वविघ्नविनायकः। कलिघ्नः कर्मशत्रुघ्नो लोकालोकप्रकाशकः ॥ ३ ॥ अनिद्रालुरतन्द्रालुजागरूका प्रसास्यः । लक्ष्मीपतिर्जगज्ज्योतिधर्मराजः प्रजाहितः ॥ ४ ॥