________________
त्वसतोसि जगबन्धुः त्वमतोऽसि जगद्भिषक् । त्वमतोऽसि जगद्धाता त्वमतोऽसि जगद्धितः ।।३।। त्वमेक जगता ज्योतिस्त्वं द्विरूपोपयोगभाक् । त्वं त्रिरूपंकमुक्त्यङ्गः स्वोत्थानन्तचतुष्टयः ॥४॥ त्वं पञ्चब्रह्मतत्त्वात्मा पश्चकल्याणनायकः । पड्भेदभावतत्त्वज्ञस्त्वं सप्तनयसंग्रहः ॥१॥ दिव्याष्टगुणमूर्तिस्त्व नवकेवललब्धिकः । दशवतारनिर्धार्यों मां पाहि परमेश्वर ॥६॥ युष्मन्नामावलीब्धविलसत्स्तोत्रमालया । भवन्तं परिवस्यामः प्रसीदानुगृहाण नः ॥७॥ इदं स्त्रोत्रमनुस्मृत्य पूतो भवति भाक्तिकः । यःस पाठं पठत्येन स स्यात्कल्याणभाजनम् ||८|| ततः सदेदं पुण्यार्थी पुमान्पठति पुण्यधीः । पौरुहूती श्रियं प्राप्तु परमामभिलाषुकः ॥६॥ स्तुत्वेति मघवा देवं चराचरजगद्गुरुम् । ततस्तीर्थविहारस्य व्यधात्प्रस्तावनामिमाम् ॥१०॥ स्तुतिः पुण्यगुणोत्कीर्तिः स्तोता भव्यः प्रसन्नधीः । निष्ठितार्थो भवांस्तुत्यः फलं नैश्रेयसं सुखम् ॥११॥ यः स्तुत्यो जगता त्रयस्य न पुनः स्तोता स्वयं कस्यचित् ध्येयो योगिजनस्य यश्च नितरां ध्याता स्वय कस्यचित् ॥ यो नेतृन् नयते नमस्कृतिमल नन्तव्यपक्षेक्षणः स श्रीमान् जगतां त्रयस्य च गुरुर्देवः पुरुः पावनः ॥१२॥ तं देवं त्रिदशाधिपार्चितपदं धोतिक्षयानन्तरंप्रोत्थानन्तचतुष्टयं जिनमिमं भव्याब्जिनीनामिनम् । मानस्तम्भविलोकनानतजगन्मान्यं त्रिलोकीपति आप्ताचिन्त्यवहिर्विभूतिमनघं भक्त्या प्रवन्दामहे ||१३||
[पुप्पाजलि क्षिपामि ।]