________________
विभवो विभयो वीरो विशोको विजरो जरन् । विरागो विरतोऽसङ्गो विविक्तो वीतमत्सरः ॥ ३ ॥ विनयेजनताबन्धुर्विलीनाशेषकल्मषः । वियोगो योगविद्विद्वान्विधाता सुविधिः सुधीः ॥४॥ क्षान्तिभाक्पृथिवीमूर्तिः शान्तिभाक् सलिलात्मकः । वायुमूर्तिरसङ्गात्मा वह्निमूर्तिरधर्मधुक |॥ ५ ॥ सुयज्वा यजमानात्मा सुत्वा सुत्रामपूजितः । ऋत्विग्यज्ञपतिर्यज्ञो यज्ञाङ्गममृतं हविः ॥६॥ व्योममूर्तिरमूर्तात्मा निर्लेपो निर्मलोऽचलः । सोममूर्तिः सुसौम्यात्मा सूर्यमूर्निर्महाप्रभः ॥ ७ ॥ मन्त्रविन्मन्त्रकृन्मन्त्री मन्त्रमूर्तिरनन्तगः। स्वतन्त्रस्तन्त्रकृत्स्वन्तः कृतान्तान्तः कृतान्तकृत् ॥८॥ कृती कृतार्थः सत्कृत्यः कृतकृत्यः कृतक्रतुः। नित्यो मृत्युञ्जयो मृत्युरमृतात्माऽमृतोद्भवः ।।६ ॥ ब्रह्मनिष्ठः परब्रह्म , ब्रह्मात्मा ब्रह्मसम्भवः । महाब्रह्मपतिब्रटेट महाब्रह्मपदेश्वरः ॥१०॥ सुप्रसनः प्रसन्नात्मा ज्ञानधमेदमप्रसुः । प्रशमात्मा प्रशान्तात्मा पुराणपुरुषोत्तमः ॥११॥
इति स्थविष्ठादिशतम् ।।३॥ अर्घम् । महाशोकध्वजोऽशोकः कः स्रष्टा पद्मविष्टरः । पद्मशः पद्मसम्भूतिः पद्यनाभिरनुत्तरः॥१॥ पायोनिर्जगद्योनिरित्यः स्तुत्यः स्तुतीश्वरः। स्तवना) हृषीकेशो जितजेयः कृतक्रियूः ॥ २ ॥ गणाधिपोगणज्येष्ठो गण्यः पुण्योगणाग्रणीः । गुणाकरो गुणाम्भोधिर्गुणज्ञो गुणनायकः ॥ ३ ॥