________________
२२९
जन पूजा पाठ सप्रह
श्रीपतिर्मगवानहन्नरजा विरजाः शुचिः । तीर्थकृत्फेवलीशानः पूजाहः स्नातकोऽमलः ॥ २ ॥ अनन्तदीप्ति नात्मा स्वयम्बुद्धः प्रजापतिः । मुक्त. शक्तो निराबाधो निष्कलो भुवनेश्वरः ।। ३ ।। निरञ्जनो जगज्योतिर्निरुक्तोक्तिरनामयः । अचलस्थितिरक्षोभ्यः कूटस्थः स्थाणुरचयः ॥ ४ ॥ अग्रणीग्रामणीर्नेता प्रणेता न्यायशास्वकृत् । शास्ता धर्मपतियों धर्मात्मा धर्मतीर्थकृत् ॥ ५ ॥ वृषध्वजो वृषाधीशो वृषकेतुषायुधः ।। वृषो वृषपविर्भः वृषभाको वृषोद्भवः ॥ ६॥ हिरण्यनामिभूतात्मा भूतभृद् भूतभावनः । अभवो विभवो भास्वान भवो भावो भवान्तकः ॥ ७ ॥ हिरण्यगर्भः श्रीगर्भः प्रभूतविभवोऽभवः । स्वयंप्रभः प्रभूतात्मा भूतनाथो जगत्पतिः ॥ ८ ॥ सर्वादिः सर्वदृक् सार्वः सर्वज्ञः सर्वदर्शनः । सर्वात्मा सर्वलोकेशः सर्ववित्सर्वलोकजित् ।। ६ ॥ सुगतिः सुश्रुतः सुश्रद सुवाक् सरिबहुश्रुतः । विश्रुतः विश्वतः पादो विश्वशीर्षः शुचिश्रवाः ॥१०॥ सहस्रशीपः क्षेत्रज्ञः सहस्राक्षः सहस्रपात् । भूतभव्यभवद्भर्ता विश्वविद्यामहेश्वरः ॥ ११ ॥
इति दिव्यादिशतम ॥ २॥ अर्घम् । स्थविष्ठः स्थविरो जेष्ठ' पृष्ठः श्रेष्ठो वरिष्ठधी । स्थेष्ठो गरिष्ठो बहिष्ठः श्रेष्ठोमिठो गरिष्ठगी ॥१॥ विश्वभृद्विश्वसृट् विश्वेट विश्वमग्विश्वनायक. विश्वाशीविश्वरूपात्मा विश्वजिद्विजितान्तकः ॥ २ ॥