________________
विश्वात्मा विश्वलोकेशो विश्वतश्चक्षुरतर. । विश्वविद्विश्वविद्येशो विश्वयोनिरनीश्वर || ३ ॥ विश्वश्वा विभर्घाता विश्वेशो विश्वलोचन. | विश्वव्यापी विधिधा. शाश्वतो विश्वतोमुख ||४| विश्वकर्मा जगज्ज्येष्ठो विश्वमूर्ति जिनेश्वर । विश्व विश्वभूतेश विश्वज्योतिरनीश्वर || ५ || जिनो जिष्णुरमेयात्मा विश्वरीशो जगत्पति' । अनन्तजिदचिन्त्यात्मा भव्यबन्धुरबन्धनः ॥ ६ ॥ युगादिपुरुषो ब्रह्मा पञ्चब्रह्ममयः शिवः । परः परतरः सूक्ष्मः परमेष्ठी सनातनः ॥ ७ ॥ स्वयंज्योतिरजोऽजन्मा ब्रह्मयोनिरयोनिजः । मोहारिविजयी जेता धर्मचक्री दयाध्वजः ॥ ८ ॥ प्रशान्तारिरनन्तात्मा योगी योगीश्वरार्चितः । ब्रह्मविद् ब्रह्मतत्त्वज्ञो ब्रह्मोद्याविद्यतीश्वर ॥ ६ ॥ शुद्धो बुद्धः प्रबुद्धात्मा सिद्धार्थः सिद्धशासनः । सिद्धः सिद्धान्तविद् ध्येयः सिद्धसाध्यो जगद्धितः ॥ १० ॥ सहिष्णुरच्युतोऽनन्तः प्रभविष्णुर्भवोद्भवः ।
प्रभूष्णुरजरोऽजर्यो भ्राजिष्णुर्धीश्वरोऽव्ययः ॥ ११॥ विभावसुरसम्भूष्णुः स्वयम्भूष्णुः पुरातनः । परमात्मा परंज्योतिस्त्रिजगत्परमेश्वरः ||१२|| इति श्रीमदादिशतम् ।। १ ।।
[ प्रत्येक शतकके अन्तमे उदकचदनतदुल आदि श्लोक. पढकर अर्ध चढ़ाना चाहिये । ]
दिव्यभाषापतिर्दिव्यः पूतवाक्पूतशासन' | तात्मा परमज्योतिर्धर्माध्यचो दमीश्वरः ॥ १ ॥