________________
३३०
जैन पूजा पाठ सह
नमस्ते क्षीण-मोहाय क्षीण-दोषाय ते नमः ||२४| नमः सुगतये तुभ्य शोभना गतिमीयुषे । नमस्तेऽनीन्द्रिय ज्ञान - मुसायानिन्द्रियात्मने ॥२५॥ काय बन्धननिमोचाटकायाय नमोऽस्तु ते । नमस्तुभ्यमयोगाय योगिनाम धियोगिने ||२६|| अवेदाय नमस्तुभ्यमकपायाय ते नमः । नम. परम - योगीन्द्र वन्दितात्रि- द्वयाय ते ॥२७॥ नम परम - विज्ञान नमः परम-सयम ।
नमः
परमदृष्ट- परमार्थाय ते नमः ||२८|| नमस्तुभ्यमलेश्याय शुक्रलेश्याशक- स्पृशे । नमो भव्येतरावस्थाव्यतीताय विमोक्षणे ॥२६॥ सज्यसंज्ञिद्वयावस्थाव्यतिरिक्तामलात्मने । नमस्ते बीतसंज्ञाय नमः क्षायिकदृष्टये ॥ ३० ॥ अनाहाराय तृप्ताय नमः परमभाजुषे । व्यतीताशेषदोषाय भवान्धेः पारमीयते ॥ ३१ ॥ अजराय नमस्तुभ्यं नमस्ते ऽतीतजन्मन । अमृत्यवे नमस्तुभ्यमचलायाक्षरात्मने ॥ ३२ ॥ अलमास्ता गुणस्तोत्रमनन्तास्तावका गुणाः । त्वं नामस्मृतिमात्रेण पर्युपासि सिषामहे ।। ३३ । एव स्तुत्वा जिनं देव भक्त्या परमया सुधीः पठेदष्टोत्तरं नाम्ना सहस्रं पाप- शान्तये ॥ ३४ ॥ इति प्रस्तावना
प्रसिद्धाष्ट सहस्र लक्षण त्वा गिरा पतिम | नाम्नामष्टसहस्रण तोष्टुमोऽभीष्टसिद्धये ॥ १ ॥ श्रीमान्स्वयम्भूर्ष्टषभः शभव शभुरात्मभूः । स्वयंप्रभः प्रभभक्ता विश्वभूरपुनर्भवः ॥ २ ॥