________________
जग पूजा पाठसप्रद
गुणादरी गुणोच्छेदी निर्गुणः पुण्यगीर्गुणः। शरण्यः पुण्यवाक्पूतो वरेण्यः पुण्यनायकः ॥ ४ ॥ अगण्यः पुण्यधीगुण्यः पुण्यकृत्पुण्यशासनः । धर्मारामो गुणग्रामः पुण्यापुण्यनिरोधकः ॥ ५ ॥ पापापेतो विपापात्मा विपाप्मा वीतकल्मपः । निर्द्वन्द्वो निर्मदः शान्तो निर्मोहो निरुपद्रवः ॥ ६॥ निर्निमेपो निराहारो निष्क्रियो निरुपप्लवः । निष्कलको निरस्तैना नितांगो निरास्त्रवः ॥ ७ ॥ विशालो विपुलज्योतिरतुलोऽचिन्त्यवैभवः । सुसंवृतः सुगुप्तात्मा सुवृत् सुनयतत्ववित् ॥ ८ ॥ एकविद्यो महाविद्यो मुनिः परिवृढः पतिः । घीशो विद्यानिधिः साक्षी विनेता विहतान्तकः ॥६॥ पिता पितामहः पाता पवित्रः पावनो गतिः । प्राता भिपग्वरो यो वरदः परमः पुमान् ।।१०॥ कविः पुराणपुरुपो वीयान्वृषभः पुरुः । प्रतिष्ठाप्रसवो हेतुर्भुवनकपितामहः ॥११॥
इति महाशोकध्वजादिशतम् ।। ४ ।। अर्घम् । शीवृक्षलक्षणः श्लपणो लक्षण्यः शुभलक्षणः । निरक्षः पुण्डरीकाक्षः पुष्कलः पुष्करेक्षणः ॥ १ ॥ सिद्धिदः सिद्वसङ्कल्प सिद्धात्मा सिद्धसाधनः। बुद्धवोध्यो महाबोधिर्वर्धमानो महर्द्धिकः ॥ २ ॥ वेदाङ्गो वेदविद्वेद्यो जातरूपो विदांवरः । वेदवेद्यः स्वसंवेद्यो विवेदो वदतांवरः ॥३॥ अनादिनिधनोऽव्यक्तो व्यक्तवाग्व्यक्तशासनः । युगादिद्युगाधारो युगादिर्जगदादिजः ॥ ४ ॥