________________
येनालोकयता मयानति-चिराचक्षुः कृताथीकृतं द्रष्टव्यावधि-वीक्षण-व्यतिकर-व्याजम्भमाणोत्सवम् ॥ कन्तोः सकान्तमपि मल्लमति कश्चिन्
मुग्धो मुकुन्दमरविन्दजमिन्दुमौलिम् । मोघीकृत-त्रिदश-योपिदपाङ्गपातः
तस्य त्वमेव विजयी जिनराज मल्लः ॥१२॥ किसलयितमनल्पं त्वद्विलोकाभिलापात्
कुसुमितमतिसान्द्रं त्वत्समीप-प्रयाणान् । मम फलितममन्दं त्वन्मुखेन्दोरिदानी
नयन-पथमवाप्तादेव पुण्यद्रुमेण ॥१३॥ त्रिभुवन-वन-पुरप्यत्पुष्प-कोदण्ड-दर्प
प्रमर-दव-नवाम्भो-मक्ति-सूक्ति-प्रसूतिः । स जयति जिनराज-बात-जीमूत-संघः
___ शतमख-शिखि-नृत्यारम्भ-निर्वन्ध-बन्धुः॥१४॥ भूपाल-स्वर्ग-पाल-प्रमुख-नर-सुर-श्रेणि नेत्रालिमाला
लीला-चैत्यम्य चैत्यालयमखिलजगत्कौमुदीन्दोर्जिनम्य । उत्तंसीभूत-सेवाञ्जलि-पुट-नलिनी कुड्मलात्रिः परीत्य श्रीपाद-च्छाययापस्थितभवदवथुः सथितोऽस्मीव मुक्तिम् ।। देव त्वदंघ्रि-नख-मण्डल-दर्पणेऽस्मिन्
अव्ये निसर्ग-रुचिरे चिर-दृष्ट-वक्त्रः । २१