________________
दानं ज्ञान-धनाय दत्तमसकृत्पात्राय सद्वत्तये ___ चीर्णान्युग्र-तपांसि तेन सुचिरं पूजाश्च वह्वयः कृताः । शीलाना निचयः सहामलगुणः सर्वः समासादितो
दृष्टस्त्वं जिन येन दृष्टि सुभगः श्रद्धा-परेण क्षणम् ॥६॥ प्रज्ञा-पारमितः स एव भगवान्पारं स एव श्रुत
स्कन्धाब्धेगुण-रत्न-भूपण इति श्लाघ्यः स एव ध्रुवम् । नीयन्ते जिन येन कर्ण-हृदयालङ्कारतां त्वद्गुणाः
संसाराहि-विपापहार-मणयत्रैलोक्य-चूडामणे ||७|| जयति दिविज-वृन्दान्दोलितरिन्दुरोचिः
निचय-रुचिभिरुच्चैश्चामरैर्वीज्यमानः । जिनपतिरनुरज्यन्मुक्ति-साम्राज्य-लक्ष्मी
युवति-नव-कटाक्ष-क्षेप-लीलां दधानः ॥८॥ देवः श्वेतातपत्र-त्रय-चमरिरुहाशोक-भाश्चक्र-भाषा
पुष्पौघासार-सिंहासन-सुरपटहैरष्टभिः प्रातिहार्यः । साश्चर्यजमानः सुर-मनुज-सभाम्भोजिनी-भानुमाली
पायानः पादपीठीकृत-सकल-जगत्पाल-मौलिर्जिनेन्द्रः ।। नृत्यत्स्वर्दन्ति-दन्ताम्बुरुह-वन-नटन्नाक-नारी-निकायः
सद्यस्त्रैलोक्य-यात्रोत्सव-कर-निनदातोद्यमाद्यन्निलिम्पः। हस्ताम्भोजात-लीला-विनिहित सुमनोदाम-रम्यामर-स्त्री
काम्यः कल्याण-पूजाविधिषु विजयते देव देवागमस्ते ।। चक्षुष्मानहमेव देव भुवने नेत्रामृत-स्यन्दिनं , त्वद्वक्त्रेन्दुमतिप्रसाद सुभगैस्तेजोभिरुद्भासितम् ।