________________
श्रीकीर्ति- कान्ति-वृति-सङ्गम-कारणानि
नव्यो न कानि लभते शुभ- मङ्गलानि ||१६| जयति सुर-नरेन्द्र श्रीसुधा-निर्झरिण्याः
कुलधरणिधरोऽयं जैन - चैत्याभिरामः । प्रनिपुल-फल-धर्मानोकहाग्र-प्रवाल
प्रसर-शिखर- शुम्भत्केतनः श्रीनिकेतः ||१७|| विनमद मरकान्ता - कुन्तलाक्रान्त-कानि
स्फुरित-नख-मयस-चोतिताशान्तरालः । दिविज - मनुज -राज-व्रत-पूज्य-क्रमाजो
जयति विजित - कर्माराति-जालो जिनेन्द्रः ॥ १८॥ सुप्तोत्थितेन सुमुखेन सुमङ्गलाय
द्रष्टव्यमरित यदि मङ्गलमेव वस्तु । अन्येन किं तदिह नाथ तवैव वस्त्रं
त्रैलोक्य मङ्गल-निकेतनमीक्षणीयम् ॥१६॥ त्वं धर्मोदय-तापसाश्रम - शुकस्त्वं काव्य-वन्य-क्रमक्रीडानन्दन - कोकिलस्त्वमुचितः श्रीमल्लिका - षट्पदः । त्वं पुन्नाग-कथारविन्द - सरसी-हंसस्त्वमु तंसकैः कैर्भूपाल न धार्यसे गुण-मणि-खमालिभिमौलिभिः || शिव-सुखमजर - श्री सङ्गमं चाभिलण्य स्वमभिनियमयन्ति क्लेश-पाशेन केचित् । वयमिह तु वचस्ते भूपतेर्भावयन्तः
तदुभयमपि शवल्लीलया निर्विशामः ||२१||