________________
अद्याष्टकस्तोत्रम्
अद्य
अद्य मे सफलं जन्म नेत्रे च सफले मम । त्वामद्राक्षं यतो देव हेतुमक्षयसंपदः ॥ १ ॥ संसार-गंभीर-पारावारः सुदुस्तरः । सुतरोऽयं क्षणेनैव जिनेन्द्र तव दर्शनात् ॥ २ ॥ अद्य मे चालितं गात्रं नेत्रे च विमले कृते । स्नातोऽहं धर्म - तीर्थेषु जिनेन्द्र तव दर्शनात् ॥३॥ अद्य मे सफलं जन्म प्रशस्तं सर्वमंगलम् । 'संसारार्णव तीर्णोऽहं जिनेन्द्र तव दर्शनात् ॥ ४ ॥ अद्य कर्माष्टक - ज्वालं विधूतं सकपायकम् । दुर्गते विनिवृत्तोऽहं जिनेन्द्र तव दर्शनात् ॥ ५ ॥ अद्य सौम्या ग्रहाः सर्वे शुभायैकादश-स्थिताः । नष्टानि विम-जालानि जिनेन्द्र तव दर्शनात् ॥६॥ अद्य नष्टो महाबन्धः कर्मणां दुःखदायकः । सुख-सङ्ग समापन्नो जिनेन्द्र तव दर्शनात् ॥७॥ अद्य कर्माष्टकं नष्टं दुःखोत्पादन -कारकम् । सुखाम्भोधि-निमग्नोऽहं जिनेन्द्र तव दर्शनात् ॥ ८ ॥ अद्य मिथ्यान्धकारस्य हन्ता ज्ञान- दिवाकरः । उदितो मच्छरीरेऽस्मिन् जिनेन्द्र तव दर्शनात ॥६॥ अद्याहं सुकृती भूतो निर्धूताशेषकल्मपः । भुवनत्रय - पूज्योsहं जिनेन्द्र तव दर्शनात् ॥१०॥ अद्याष्टकं पठेद्यस्तु गुणानन्दित-मानसः । तम्य सर्वार्थसंसिद्धिर्जिनेन्द्र तव दर्शनात् ॥ ११॥