SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २९६ । जैन पूजा पाठ सा देवाधिदेव भगवन्नरतीर्थनाथ। त्व० ॥ ७ ॥ यन्मोहमल्लमदभञ्जनमल्लिनाथ क्षेमकगेऽवितथशासनसुव्रताव्य । यत्सम्पदाप्रशमितो नमिनामधेयं । स्व० ॥ ८ ॥ तापिच्छगुच्छरुचिरोज्ज्वल नेमिनाथ घोरोपसर्गविजयिन् जिन पार्श्वनाथ स्याद्वादसूक्तिमणिदर्पणवर्द्धमान। त्व०॥६॥ प्रालेयनीलहरितारुणपीतभासं. यन्मूर्तिमव्यय सुखावसथं मुनीन्द्राः । ध्यायन्ति सप्ततिशतं जिनवल्लभानांत्व०॥१०॥ सुप्रभातं सुनक्षत्रं मांगल्यं परिकीर्तितम् । चतुर्विंशतितीर्थानां सुप्रभातं दिने दिने ॥११॥ सुप्रभातं सुनक्षत्रं श्रेयः प्रत्यभिनन्दितम् । देवता ऋषयः सिद्धाः सुप्रभातं दिने दिने॥१२॥ सुप्रभातं तवैकस्य वृषभस्य महात्मनः । येन प्रवर्तितं तीर्थं भव्यसत्त्वसुखावहम् ॥ १३ ॥ सुप्रभातं जिनेंद्राणां ज्ञानोन्मीलितचक्षुषाम् । अज्ञानतिमिरान्धानां नित्यमस्तमितो रविः ॥१४॥ सुप्रभातं जिनेन्द्रस्य, वीरः कमल लोचनः । येन कर्माटवी दग्धा, शुक्लध्यानोग्रवह्निना ॥१५॥ सुप्रभातं सुनक्षत्रं सुकल्याणं सुमंगलम् । त्रैलोक्यहितकर्तृणां जिनानामेव शासनम् ॥१६॥
SR No.010139
Book TitleSanatkumar Chavda Punyasmruti Granth
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages664
LanguageHindi
ClassificationSmruti_Granth
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy