SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २९८ जैन पूजा पाठ प्रह - मङ्गलाष्टकम् श्रीमन्नम्र-सुरासुरेन्द्र मुकुट प्रद्योत-रतप्रभा भास्वत्पाद-नखेन्दवः प्रवचनाम्भोधीन्दवः स्थायिनः । ये सर्वे जिन-सिद्ध-सूर्यनुगतास्ते पाठकाः साधवः स्तुत्या योगिजनैव पञ्चगुरवः कुर्वन्तु ते मङ्गलम् ॥१॥ सम्यग्दर्शन-घोष-वृत्तममलं रत्नत्रयं पावनं मुक्ति-श्री-नगराधिनाथ-जिनपत्युक्तोऽपवर्गप्रदः । धर्मः सूक्तिसुधा च चैत्यमखिलं चैत्यालयं श्रयालयं प्रोक्तं च त्रिविधं चतुर्विधममी कुर्वन्तु ते मङ्गलम् ॥२॥ नामेयादि-जिनाधिपास्त्रिभुवनख्याताश्चतुर्विंशतिः श्रीमन्तो भरतेश्वरप्रभृतयो ये चक्रिणो द्वादश । ये विष्णु-प्रतिविष्णु-लाङ्गलधराः सप्तोत्तरा विंशतिः त्रैकाल्ये प्रथितास्त्रिपष्टिपुरुषाः कुर्वन्तु ते मङ्गलम् ॥३॥ देव्योऽष्टौ च जयादिका द्विगुणिता विद्यादिका देवताः श्रीतीर्थङ्करमातृकाध जनका यक्षाश्च यक्ष्यस्तथा । द्वात्रिंशत्रिदशाधिपास्तिथिसुरा दिक्कन्यकाश्चाष्टधा दिक्पाला दश चेत्यमी सुरगणाः कुर्वन्तु ते मङ्गलम्॥४॥ ये सर्वोषधऋद्धयः सुतपसो वृद्धिंगताः पञ्च ये ये चाष्टाङ्गमहानिमित्तकुशला येऽष्टाविधाश्चारणाः ।
SR No.010139
Book TitleSanatkumar Chavda Punyasmruti Granth
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages664
LanguageHindi
ClassificationSmruti_Granth
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy