________________
१२
जैन पूजा पाठ समह
संपूर्ण - शारद - शशाङ्क - मरीचि - जालस्यन्दैरिवात्मयशसामिव सुप्रवाहैः ।
चीरैर्जिनाः शुचितरैरभिषिच्यमानाः संपादयन्तु मम चिर- समीहितानि ||१४||
[ उपरितन मन्त्र पठित्वा जलेनासि पिचे इत्यस्मिन्स्थाने तीरेणाभिपिल्वे इत्युच्चार्य.क्षीराभिषेक कुर्यात् । ] दुग्धान्धि-वीचि - पयसाचित-फेनराशिपाण्डुत्व - कान्तिमवधीरयतामतीव । दध्नां गता जिनपतेः प्रतिमा सुधारा
संपद्यतां सपदि वाञ्छित - सिद्धये नः ॥१५॥ [ उपरितन मन्त्र पठित्वा जलेनाभिपिचे इत्यस्मिन्स्थाने दध्नाभिपि इति पठित्वा दध्यभिषेक कुर्यात् । ] भक्त्या ललाट-तटदेश-निवेशितोच्चै
र्हस्तैश्च्युता सुरवरासुर-मर्त्यनाथैः । तत्काल-पीलित- महेक्षु-रसस्य धारा
सद्यः पुनातु जिन- विम्व गतैव युष्मान् ॥ १६॥ [ उपरितन मन्त्र पठित्वा जलेनाभिपि इत्यस्मिन्स्थाने इक्षुरसेनाभिपि इति पठित्वा इक्षुरसाभिषेक कुर्यात् । ] संस्नापितस्य धृत-दुग्ध-दधीक्षुवा है:
सर्वाभिरौपधिभिरर्हत उज्ज्वलाभिः ।'
उद्वर्तितस्य विदधाम्यभिषेकमेला
कालेय-कुंकुम-रसोत्कट-वारि- पूरैः ।। १७।।