________________
मन पूजा पाठ सप्रह
[उपरितनमन्त्रमुच्चार्य जलेनाभिषिञ्चे इत्यस्मिन्स्थाने सौषधिभि
रभिपिरचे इति पठित्वा सवौषधिभिरभिषेकं कुर्यात् । ] द्रव्यैरनल्प-धनसार-चतुःसमाये
रामोद-वासित-समस्त-दिगन्तरालैः । मिश्रीकृतेन पयसा जिनपुङ गवानां
त्रैलोक्य-पावनमहं स्नपनं करोमि ॥१८॥ [जलेनाभिषिञ्चे इति स्थाने सुगन्धजलेनेति पठित्वा स्नपन कुर्यात् ] इष्टैमनोरथ-शतैरिव भव्यपुंसां
पूर्णैः सुवर्ण-कलशैनिखिलैर्वसानैः । संसार-सागर-विलंघन-हेतु-सेतु.
___माप्लावये त्रिभुवनैकपतिं जिनेन्द्रम् ।।१६।।'
[ उपरितनमन्त्रेणैव समस्तकलशैरभिषेक कुर्यात् ] मुक्ति-श्री-वनिता-करोदकमिदं पुण्याङ्कुरोत्पादक
नागेन्द्र-त्रिदशेन्द्र-चक्र-पदवी-राज्याभिषेकोदकम् । सम्यग्ज्ञान-चरित्र-दर्शनलता-संवृद्धि-संपादकं कीर्ति-श्री-जय-साधकं तव जिन स्नानस्य गन्धोदकम् ॥२०॥
[ग्लोकमिमं पठित्वा गन्धोदक गृह्णीयात् ] इति श्रीलम्वमिपेकविधि समाप्त ।