________________
जीवादितत्वप्रतिपादकाय. लल्यक्त्वसुख्याष्टगुणार्णवाय । प्रशान्तरूपाय दिगम्बराय. देवाधिदेवाय नमो जिनाय ॥ चिदानन्दैकरूपाय जिनाय परमात्मने ।
परमात्मप्रकाशाय, नित्यं सिद्धात्मने नमः ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्यभावेन रक्ष रक्ष जिनेश्वर ! ॥ नहि त्राता नहि त्राता नहि त्राता जगत्त्रये ।
वीतरागात्परो देवो. न भूतो न भविष्यति ॥ जिनेभक्तिर्जिनेभक्तिजिनेभक्तिदिनेदिने ।
सदामेऽस्तु लदामेऽस्तु लदासेऽस्तु भवे-भवे ।। जिनधर्मविनिर्मुक्तो, मा भवचक्रवर्त्यपि ।
स्थाच्चेटोऽपि दरिद्रोऽपि. जिनधर्मानुवासितः ॥ जन्मजन्मकृतपापं जन्सकोटिसिरर्जितं ।
जन्ममृत्युजरारोगं हन्यते जिनदर्शनात् ॥ अद्याभवत्सफलता नयनद्वयस्य,
देव । त्वदीयचरणाम्बुजवीक्षणेन । अद्य त्रिलोकतिलक प्रतिभाषते मे,
संसारवारिधिरयं चुलकप्रमाणम् ॥